|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.174. अध्यायः 174
Mahabharata - Drona Parva - Chapter Topics
कर्णं युयुत्सोरर्जुनस्य कृष्णेन सहेतुकथनं तेन युद्धनिषेधः॥ 1 ॥ कृष्णार्जुनचोदनया घटोत्कचस्य कर्णेन सह रणारम्भः॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-174-0x(4724)(52948)
ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा।
आजघानरोसि शरैर्दशभिर्मर्मभेदिभिः॥ 7-174-1(52949)
प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोपि मारिष।
दशभिः सायकैर्हृष्टस्तिष्ठतिष्ठेति चाब्रवीत्॥ 7-174-2(52950)
तावन्योन्यं शरैः सङ्ख्ये सञ्छाद्य सुमहारथैः।
पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम्॥ 7-174-3(52951)
ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे।
सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः॥ 7-174-4(52952)
कार्मुकप्रवरं चापि प्रचिच्छेद शितैः शरैः।
सारथिं चास्य भल्लेन रथनीडादपातयत्॥ 7-174-5(52953)
धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः।
गृहीत्वा परिघं घोरं कर्णस्याश्वानपीडयत्॥ 7-174-6(52954)
विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः।
ततो युधिष्ठिरानीकं पद्ध्यामेवान्वपद्यत॥ 7-174-7(52955)
आरुरोह रथं चापि सहदेवस्य मारिष।
प्रयातुकामः कर्णाय वारितो धर्मसूनुना॥ 7-174-8(52956)
कर्णस्तु सुमहातेजाः सिंहनादविमिश्रितम्।
धनुःशब्दं महच्चक्रे दध्मौ तारेण चाम्बुजम्॥ 7-174-9(52957)
दृष्ट्वा विनिर्जितं युद्धे पार्षतं ते महारथाः।
अमर्षवशमापन्नाः पाञ्चालाः सहसोमकाः॥ 7-174-10(52958)
सूतपुत्रवधार्थाय शस्त्राण्यादाय सर्वशः।
प्रययुः कर्णमुद्दिश्य मृत्युं कृत्वा निवर्तनम्॥ 7-174-11(52959)
कर्णस्यापि रथे वाहानन्यान्सूतोऽभ्ययोजयत्।
शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः॥ 7-174-12(52960)
लब्धलक्षस्तु राधेयः पञ्चालानां महारथान्।
अभ्यपीडयदायस्तः शरैर्मेघ इवाचलम्॥ 7-174-13(52961)
सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः।
सम्प्राद्रवत्सुसन्त्रस्ता सिंहेनेवार्दिता मृगी॥ 7-174-14(52962)
पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले।
रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः॥ 7-174-15(52963)
धावमानस्य योधस्य क्षुरप्रैः स महामृधे।
बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम्॥ 7-174-16(52964)
ऊरू चिच्छेद चान्यस्य गजस्थस्य विशाम्पते।
वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष॥ 7-174-17(52965)
नाज्ञासिषुर्धावमाना बहवश्च महारथाः।
सञ्छिन्नान्यात्मगात्राणि वाहनानि च संयुगे॥ 7-174-18(52966)
ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह।
तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे॥ 7-174-19(52967)
अपि स्वं समरे योधं धावमानं विचेतसम्।
कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते॥ 7-174-20(52968)
तान्यनीकानि भग्नानि द्रवमाणानि भारत।
अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्छरान्॥ 7-174-21(52969)
अवेक्षमाणास्त्वन्योन्यं सुसम्मूढा विचेतसः।
नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना॥ 7-174-22(52970)
कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः।
द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः॥ 7-174-23(52971)
ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम्।
अपयाने मनः कृत्वा फल्गुनं वाक्यमब्रवीत्॥ 7-174-24(52972)
पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम्।
निशीथे दारुणे काले तपन्तमिव भास्करम्॥ 7-174-25(52973)
कर्णसायकनुन्नानां क्रोशतामेष निःस्वनः।
अनिशं श्रूयते पार्थ त्वद्बन्धूनामनाथवत्॥ 7-174-26(52974)
यथा विसृजतश्चास्य सन्दधानस्य चाशुगान्।
पश्यामि नान्तरं पार्थ क्षपयिष्यति नो ध्रुवम्॥ 7-174-27(52975)
यदत्रानन्तरं कार्यं प्राप्तकाल च पश्यसि।
कर्णस्य वधसंयुक्तं तत्कुरुष्व धनञ्जय॥ 7-174-28(52976)
एवमुक्तो महाराज पार्थः कृष्णमथाब्रवीत्।
भीतः कुन्तीसुतो राजा राधेयस्याद्य विक्रमात्॥ 7-174-29(52977)
एवं गते प्राप्तकालं कर्णानीके पुनः पुनः।
भवान्व्यवस्यतु क्षिप्रं द्रवते हि वरूथिनी॥ 7-174-30(52978)
द्रोणसायकनुन्नानां भग्नानां मधुसूदन।
कर्णेन त्रास्यमानानामवस्थानं न विद्यते॥ 7-174-31(52979)
पश्यामि च तथा कर्णं विचरन्तमभीतवत्।
द्रवमाणान्रथोदारान्किरन्तं निशितैः शरैः॥ 7-174-32(52980)
नैनं शक्ष्यामि संसोढुं चरन्तं रणमूर्धनि।
प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः॥ 7-174-33(52981)
स सवांस्तत्र यात्वाशु यत्र कर्णो महारथः।
अहमेनं हनिष्यामि मां वैष मधुसूदन॥ 7-174-34(52982)
श्रीवासुदेव उवाच। 7-174-35x(4725)
पश्यामि कर्णं कौन्तेय देवराजमिवाहवे।
विचरन्तं नरव्याघ्रमतिमानुषविक्रमम्॥ 7-174-35(52983)
नैतस्यान्योऽस्ति सङ्ग्रामे प्रत्युद्याता धनञ्जय।
ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात्॥ 7-174-36(52984)
न तु तावदहं मन्ये प्राप्तकालं तवानघ।
समागमं महाबाहो सूतपुत्रेण संयुगे॥ 7-174-37(52985)
दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी।
त्वदर्थं हि महाबाहो सूतपुत्रेण संयुगे॥ 7-174-38(52986)
रक्ष्यते शक्तिरेषा हि रौद्रां रूपं बिभर्ति च।
घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः॥ 7-174-39(52987)
स हि भीमेन बलिना जातः सुरपराक्रमः।
तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च॥ 7-174-40(52988)
सततं चानुरक्तो वो हितैषी च घटोत्कचः।
विजेष्यति रणे कर्णमिति मे नात्र संशयः॥ 7-174-41(52989)
सञ्जय उवाच। 7-174-42x(4726)
एवमुक्तो महाबाहुः पार्थः पुष्करलोचनः।
आजुहावाथ तद्रक्षस्तच्चासीत्प्रादुरप्रतः॥ 7-174-42(52990)
कवची सशरः खङ्गी सधन्वा च विशाम्पते।
अभिवाद्य ततः कृष्णं पाण्डवं च धनञ्जयम्।
अब्रवीच्च तदा कृष्णमयमस्म्यनुशाधि माम्॥ 7-174-43(52991)
ततस्तं मेघसङ्काशं दीप्तास्यं दीप्तकुण्डलम्।
अभ्यभाषत हैडिम्बिं दाशार्हः प्रहसन्निव॥ 7-174-44(52992)
वासुदेव उवाच। 7-174-45x(4727)
घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक।
प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्याचित्।
स त्वं निमज्जतां युद्धे बन्धूनां बान्धवो भव॥ 7-174-45(52993)
यावन्ति च तवास्त्राणि सन्ति मायाश्च राक्षसीः।
`अद्यैव समयस्तेषां मायानां चैव राक्षस'॥ 7-174-46(52994)
पश्य कर्णेन हैडिम्बे पाण्डवानामनीकिनीम्।
काल्यमानां रणे तात सिंहनेवेतरान्मृगान्॥ 7-174-47(52995)
एष कर्णो महेष्वासो मतिमान्दृढविक्रमः।
पाण्वानामनीकेषु निहन्ति क्षत्रियर्षभान्॥ 7-174-48(52996)
किरन्तः शरवर्षाणि महान्ति दृढधन्विनः।
न शक्नुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा॥ 7-174-49(52997)
निशीथे सूतपुत्रेण शरवर्षेण पीडिताः।
एते द्रवन्ति पाञ्चालाः सिंहेनेवार्दिता मृशाः॥ 7-174-50(52998)
एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे।
निषेद्धा विद्यते नान्यस्त्वामृते भीमविक्रम॥ 7-174-51(52999)
स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः।
मातुलानां पितॄणां च तेसजोऽस्त्रबलस्य च॥ 7-174-52(53000)
एतदर्थे हि हैडिम्बे पुत्रानिच्छन्ति मानवाः।
कथं नस्तारयेद्दुःखात्स त्वं तारय बान्धवान्॥ 7-174-53(53001)
इच्छन्ति पितरः पुत्रान्स्वार्थहेतोर्घटोत्कच।
हहलोकात्परे लोके तारयिष्यन्ति ये हिताः॥ 7-174-54(53002)
तव ह्यत्र बलं भीमं मायाश्च तव दुस्तराः।
सङ्क्रामे युध्यमानस्य सततं भीमनन्दन॥ 7-174-55(53003)
पाण्डवानां प्रभग्नानां कर्णेन निशि सायकैः।
मज्जतां धार्तराष्ट्रेषु भव पारं परन्तप॥ 7-174-56(53004)
रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः।
बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः॥ 7-174-57(53005)
जहि कर्णं हमेष्वासं निशीथे मायया रणे।
पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः॥ 7-174-58(53006)
सञ्जय उवाच। 7-174-59x(4728)
केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम्।
अभ्यभाषत कौरव्य घटोत्कचमरिन्दमम्॥ 7-174-59(53007)
घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः।
मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः॥ 7-174-60(53008)
तद्भवान्यातु कर्णेन द्वैरथं युध्यतां निशि।
सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः॥ 7-174-61(53009)
जहि कर्णं रणे शूरं सात्वतेन सहायवान्।
यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान्॥ 7-174-62(53010)
घटोत्कच उवाच। 7-174-63x(4729)
`एवमेव महाबाहो यथा वदसि मां प्रभो।
त्वया नियुक्तो गच्छामि कर्णस्य बधकाङ्क्षया'॥ 7-174-63(53011)
अलमेवास्मि कर्णाय द्रोणायालं च भारत।
अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम्॥ 7-174-64(53012)
अद्य दास्यामि सङ्ग्रामं सूतपुत्राय तं निशि।
यं जनाः सम्प्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति॥ 7-174-65(53013)
न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीन्।
सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः॥ 7-174-66(53014)
सञ्जय उवाच। 7-174-67x(4730)
एवमुक्त्वा महाबाहुर्हैडिम्बिः परवीरहा।
अभ्ययात्तुमुले कर्णं तव सैन्यं विभीषयन्॥ 7-174-67(53015)
तमापतन्तं सङ्क्रुद्धं दीप्तास्यं दीप्तमूर्धजम्।
प्रहसन्पुरुषव्याघ्रः प्रतिजग्राह सूतजः॥ 7-174-68(53016)
तयोः समभवद्युद्धं कर्णराक्षसयोर्निशि।
गर्जतो राजशार्दूल शक्रप्रह्लादयोरिव॥ ॥ 7-174-69(53017)
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे चतुःसप्तत्यधिकशततमोऽध्यायः॥ 174 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-174-13 आयस्तः प्रयत्नवान्॥ 5-174-174 चतुःसप्तत्यधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|